मनस्त्राण/मननात् त्राण—धर्माणः शब्ददेवतात्मानो मन्त्राः; तेऽपि चतुर्धा— वैदिकाः, पौराणिकाः, सैद्धान्तिकाः, लौकिकाश्च। तत्र
१. वेदोपनिबद्धा वैदिकाः। यथा—(ऋवे. १०.८५.४१)
सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये।
रयिं च पुत्राँश्चाददग्निर्मह्यमथो इमाम्॥ ६०॥
२. पुराणोपनिबद्धाः पौराणिकाः। यथा—
श्रिया वियुज्यते नाथ न कदाचिद् यथा भवान्।
तथा कलत्रसम्बन्धो देव! मा मे वियुज्यताम्॥ ६१॥
३. सिद्धान्तोपनिबद्धाः सैद्धान्तिकाः। यथा—(दुर्गासश. ११.५८५)
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधनि।
शरण्ये वत्सले गौरि नारायणि नमोऽस्तु ते॥ ६२॥