यत् सर्वेषु साधनेषु सन्निहितेषु कदाचित् पचतीत्येतद् भवति, कदाचिन्न भवति (मभा. १.३.१)।" इति।
अथानुराग एव देशान्तरव्यवधाने प्रवासाख्यां लभते।
का पुनः प्रवासे निरुक्तिः?
वस निवासे, वस आच्छादने इत्येतयोः प्रपूर्वयोर्भावकरणादिष्वेव घञि प्रवास इति रूपं भवति। तत्र —
१. वसेः प्रपूर्वस्य तद्विपरीतार्थवाचित्वे प्रवसनं प्रवासः। यथा—(मेघ. १.१)
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः॥ ६३॥