दंसणमेत्तपसिज्जिरि! चुक्का बहुआण सोक्खाणं॥ ५९॥
(पादपतनानां मुग्धे! रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसन्ने वञ्चिता बहूनां सौख्यानाम्॥)
२. मन्यते दुःखैकहेतुमपि सुखसाधनमेवैनमिति मानः। यथोच्यते—(माघ. १०.२१)
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचेताः।
योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखदभि/ पि मानः॥ ६०॥
३. मनुते बुध्यतेऽस्मात् प्रेमास्तित्वमिति मानः। यथा—(गास. ८२९)
जत्थ ण उज्जागरओ जत्थ ण ईसा विसूरणं माणं।
सब्भावचाडुअं जत्थ णत्थि णेहो तहिं णत्थि॥ ६१॥
{यत्र नोज्जागरो यत्र नेर्ष्या विसूरणं मानः।