कर्मव्यतिहारहेतुः संज्ञा। सापि चतुर्धा—आन्वार्थिकी, पारिभाषिकी, नैमित्तिकी, यादृच्छिकी चेति। तत्र
१. संज्ञार्थमनुगताऽऽन्वर्थिकी यथा—(रघु. ६.२१)
असौ शरण्यः शरणागतानां अगाधसत्त्वो मगधप्रतिष्ठः।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा॥ ५२॥
२. अनपेक्षितसंज्ञार्था पारिभाषिकी यथा—(रघु. ६.४१)
तस्यान्वये भूपतिरेष जातः प्रती / दीप इत्यागमवृद्धसेवी।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम्॥ ५३॥
३. निमित्तसव्यपेक्षा नैमित्तिकी यथा—(कुसं. १.२६)
'तां पार्वतीत्याभिजनेन नाम्ना'॥५४॥