बहुवासअवासघरे वहूए वाहुल्लिआ दिट्ठी॥ ६०॥
{केलीगोत्रस्खलने वरस्य हिन्दोलितं धृतिं दधाति।
वधूवासकवासगृहे वध्वा बाष्पार्द्रिता दृष्टिः॥}
समअण-णअणालोअण-सच्चविअण्णोण्ण-मणहराआ/लावो।
पच्चूस-रअ-विलासो वीसंभं कहइ मिहुणाण॥ ६१॥
(समदननयनालोकनसत्यापितान्योन्यमनोहरालापः।
प्रत्यूषरतविलासो विस्रंभं कथयति मिथुनानाम्॥)
५५. वशीकारो यथा—(गास. २.३०)
सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।