इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ६८॥
प्रवृद्धा यथा—(उराच. १.३९)
अद्वैधं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद् विस्रम्भो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते॥ ६९॥
सम्पृक्ता यथा—(उराच. १.३८)
इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः॥ ७०॥
अनुवर्तिनी यथा—(रघु. १५.६१)
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेरासीद् यत् सैव जाया हिरण्मयी॥ ७१॥