तयोरालम्बनविभाव इष्टानिष्टसंदर्शनादिः, यमालम्ब्य सुखं दुःखं चोत्पद्यते। तेन सुखदुःखविषयेणानुभावेन स्मरणहेतुः संस्कारो जन्यते।
संस्कारप्रबोधहेतवः पुनरुद्दीपनविभावाः ऋतुमाल्यविलेपनादयः। तैः प्रतिबुद्धसंस्कारस्य स्मरणेच्छाद्वेषप्रयत्नाः तेभ्यो मनोवाग्बुद्धिशरीरारम्भाः तेऽनुभूयमानत्वादनुभावाः। तैरयमभिप्रवर्धमान ईप्सितमर्थमासादयन् जिहासितं जिहानः सुखात्मकैर्व्यभिचारिभिः हर्षधृतिस्मृतिमतिप्रभृतिभिः संसृज्यमानः समासादितोत्तरोत्तर— रत्यादिस्थायिभावः शृङ्गारप्रभव एव सम्भोगशृङ्गारादिरसरूपतामधिगच्छति। स एव त्वीप्सितानवाप्तौ जिहासितस्य अहानात्, दुःखात्मकैर्व्यभिचारिभिश्चिन्तौत्सुक्या— वेगनिर्वेदादिभिः संसृज्यमानो दुःखात्मकविप्रलम्भशृङ्गारादिरसरूपतामध्यास्ते। तत्र—
रतेः शृङ्गारनिष्पत्तिर्यथा— (काव्याद. २.२८०)
मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं मतम्।
सैषावन्ती मया लब्धा कथमत्रैव जन्मनि॥ ४९॥
अत्रावन्त्या वासवदत्ताया आलम्बनविभावभूतायाः सकाशादुत्पन्ने वत्सेश्वरस्य रतौ स्थायिभावे तस्याः पुनर्जीवनादिभिरुद्दीपनविभावैरुद्दीप्यमने, समुत्पन्नेषु हर्षधृतिस्मृति— वितर्कप्रभृतिषु सुखात्मकेषु व्यभिचारिषु सम्भोगशृङ्गारतां प्राप्ते स्थायिनि यदेतदनुभावरूपं मृतेत्यादिवचनं वत्सेश्वरस्य तच्छृङ्गाररसादुपजायमानं रसवदुच्यते।
हासाद्धास्यनिष्पत्तिर्यथा— (काव्याद. २.२८९)
इदमम्लानमानाया लग्नं स्तनतटे तव।
छाद्यतामुत्तरीयेण नवं नखपदं सखि !॥ ५०॥