भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 261 to 270 of 1770 verses
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।

उपमानस्यापि सखे ! प्रत्युपमानं वपुस्तस्याः॥ ७०॥

विशेषभणितिर्यथा—(माघ. २.१६)

रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ।

वहन् हली मदक्षीबः पानगोष्ठ्यां पुनातु वः॥ ७१॥

(१२. पठितिः —६)

काक्‍वादिना वाक्योच्‍चारणं पठितिः। सा षोढा—

काकुः, स्वरः, विच्छेद, कान्तिः, अभिनयः, अपदेश इति। तासु— काकुर्यथा—(वेसं. २.२०)

म्यस्ता न भ्रुकुटिर्न बाष्पसलिलेनाच्छादिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन् वारितः।

तन्व्या मग्‍नपयोधरं भयवशादाविद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम॥ ७२॥

Showing 261 to 270 of 1770 verses