सुप्तानप्यवबोध्य युष्मदहितान् भूयोऽपि भुङ्क्ते वने किं कान्ता सुरतैषिणी? न हि न हि व्याघ्री करालानना॥ ५६॥
१. अत्र राघवः — मृत्युः किं कर्तुमिच्छुर्भगवति भवती न क्षमा, शक्र चक्री वार्याः(र्य) कार्यो न पूषन्नसदृशकलहो, नन्वयं कालकूटः। २. काठा = कठा, शतपथिका(?), ३. समाजेष्वनेक(?) x x x,
यत्रार्थिनः सर्वे प्रयोजकाभेदेनावृत्त्या वा प्रतिपत्तव्यमर्थं सम्भवाल्लाघवा— च्चैकमेव प्रयोजयन्ति, तत् तन्त्रम्। तद्यथा— काठाध्ययनं शतपथिकायां२, शालायामेकं प्रदीपं व्याकरणाध्यायिनः, समाजेष्वनेकचेतनम्(तेजनम्)३ वाद्यकर्मतूर्योपजीविनः। अभेदैकत्वसङ्ख्यां सङ्ख्यान्तरेषु तन्त्रिणीं मन्यन्ते यथा आस्यते भवद्भ्यां, आस्यते भवद्धिः। प्रश्ने तु बहुत्वसङ्ख्या पूर्वसंख्यां१ यथा— कति भवतः पुत्राः। नपुंसकं स्त्रीनपुंसयोः। यथा— किं जातमस्य। सामान्यविशेषसम्बन्धयोर्विभक्तिर्यथा — गोस्वामी व्रजतीति। द्वितीया कर्माख्यं सम्बन्धविशेषम—भिदधानाऽविशिष्ट—सम्बन्धिपदप्रयोगे तन्त्रेण नियते सम्बन्धिनी प्रकृते वर्तमानं शेषसम्बन्धमुपगृह्णाति। यदि तु गवां स्वामी व्रजतीति षष्ठ्या सम्बन्धमात्रमुच्येत निर्ज्ञाते स्वस्वामिभावे व्रजिक्रियाकर्तानियमेन प्रतीयेत तदा इष्यते ग्रामो गन्तुम्, पक्त्वा (अत्र) ओदनो भुज्यत इति प्रधानक्रियाविषयाद् धातोरुत्पद्यमानः प्रत्ययस्तन्त्रेण गुणक्रियाविषयामपि शक्तिमभ्यन्तरीकरोति। अनभिहिता वा गुणविषया शक्तिः प्रधानानुरोधादभिहितवत् प्रकाशत इति।
यच्चैकमेव पदं, वाक्यं, प्रकरणं, प्रबन्धो वा द्वयोरर्थयोः प्रयुज्यते तदपि तन्त्रम्। तत्र— पदं यथा— (काव्याद. २.३११)
असावुदयमारूढः कान्तिमान् रक्तमण्डलः।
राजा हरति लोकस्य हृदयं मृदुभिः करैः॥ ५७॥
द्वारं खड्गिभिरावृतं बहिरपि प्रक्लिन्नगण्डैर्गजै— रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः।
आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्! सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः॥ ५८॥