भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 231 to 240 of 1676 verses
(२५. ऊहः)

प्रकृतौ समर्थानां मन्त्रवाक्यानां विकारेषु सामर्थ्याभावात् सर्वलोप एकदेशानिवृत्तावपि क्रियायां मुख्यवृत्तिव्यतिक्रमेण वार्थान्तरोपादाने प्रसक्ते शब्दान्तरस्यार्थान्तरवृत्तेः समर्थस्योपादाने प्रकृतिरूपलिङ्गविभक्तिवचनान्तराणां विमृश्योपादानम् ऊहः। तद्यथा— 'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेद्' इति प्रकृतियोगे 'अग्नये त्वा जुष्टं निर्वपामि' इत्यत्राग्निशब्दः समर्थो दृष्टः। स 'सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकाम' इति विकृतियागे समर्थः; तत्र यदि तूष्णीमेवोपादानं क्रियेत, शब्दवती प्रकृतिरशब्दो विकारः स्यात्। अथ देवता नैवोपादीयेत, प्रकृतौ देवतायाः श्रवणाद् द्वैगुण्यं प्रसज्येत। तत्र द्रव्यदेवतात्यागो यागो न स्यात्।

अथाग्निशब्द एवोपादीयेत, मुख्यार्थे वृत्तः सूर्यार्थं न प्रत्याययेत्।

अथाप्यस्य गुणादर्थान्तरे सूर्ये मुख्यवृत्तिव्यतिक्रमेण प्रयोग आश्रीयेत्, प्रकृतिविपरीता शब्दप्रवृत्तिराश्रिता स्यात्। स्याच्च विकृतिः कर्तव्या; तस्मादत्र शब्दान्तरमेव तद्‍‌विभक्तिकमुपादीयते, 'सूर्याय त्वा जुष्टं निर्वपामि' इति। आश्रयभेदाच्च लिङ्गवचनमूहः। तद्यथा— देवीरापः शुद्धा यूयं' 'देव आज्यं शुद्धं त्वम्'।

विभक्त‍यन्तराणामपि—'आयुराशास्ते, 'ऊह आयुराशासाते आयुराशासत' इति। येषां तु प्रकृतावेव सामर्थ्यं नास्ति तद्यथा—'वायवः स्थ' इति, प्रकृतावेव बहुवचनेनैको वत्सोऽभिधीयते, तेषामसामर्थ्याद् विकृतावूहो न भवति; तथैकस्मिन्नेव प्रकृतिपाशे पाशानिति बहुवचनान्तः श्रूयते 'अदितिः पाशान् प्रमुमोक्तु' इति। वाजसनेयिनां त्वेकेषां एकवचनान्तः पठ्यते, 'अदितिः पाशम्' इति, तेषामूहः प्राप्नोति यदि, एतन्नास्ति अदितिरशनापाशेषु नोह इति। क्‍वचित् पुनरूहः प्राप्‍तोऽपि निषिध्यते।

अङ्गानि ज्ञातिनामानि उपमा इन्द्रियाणि च

एतान्यूहं न गच्छन्ति अध्रिगौ विषमं हि तत्॥ ५२॥

तत्राध्रिगोरन्यत्राङ्गानामनूहो यथा— 'यत्पशुर्मायुमकृतोरो वा पद्भिराहते, अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः' इत्यूहे यत्पशू मायुमकृषातामुरो वा पद्भिराहसातां, यत्पशवो मायुमकृषतोरो वा पद्भिराहसत इति। ज्ञातिनाम्नामनूहो यथा —'अनु त्वा माता मन्यतामनु पितानु भ्रातानु सखा सयूथ्य' इत्यूहे 'अनु वां माता मन्यतामनु वो माता मन्यतामि'ति। उपमानामनूहो यथा 'कश्यपेवासां च्छिद्रे श्रेणी' 'श्येनमस्य वक्षः कृणुतात्' इत्यूहे श्येनमनयोः वक्षः कृणुतात्, श्येनमेषां वक्षः कृणुतादिति। इन्द्रियाणामनूहो यथा—'सूर्यं चक्षुर्गमयतात्, वातं प्राणमन्ववसृजतात्, अन्तरिक्षममुं दिशः श्रोत्रं पृथिवीं शरीरम्', 'एकधास्य त्वचमाच्छ्यतात्', 'पुरा नाभ्या अपिशसो वपामुत्खिदतात्', 'अन्तरेवोष्माणं वारयतात्' इत्यूहे एकधानयोस्त्वचमाच्छ्यतात् एकधैषां त्वचमाच्छ्यतादिति। तदिदमुक्तम्—(माघ. १४.२३)

नाञ्जसा निगदितं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे।

तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलाः प्रयोगिणः॥ ५३॥

Showing 231 to 240 of 1676 verses