भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 221 to 230 of 1676 verses
ननु व्रीहित्वादयोऽप्यप्रतिनिधेया एव। यदाह—(वाप.जा. ७८)

जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति।

गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः॥ ४९॥

मैवं वोचः। कर्तापि नाम नाप्रतिनिधेयः, किं पुनरन्ये। तद्यथा—(रघु. १५.६१)

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।

अनन्यजानेरासीद् यत् सैव जाया हिरण्मयी॥ ५०॥

यथा वा—(मवीच. १.१५)

अयं च यजमानेन यक्ष्यमाणस्य मे गृहात्।

प्रहितस्तेन वात्सल्यादनुजन्मा कुशध्वजः॥ ५१॥

क्रियायास्तु प्रतिनिधिर्नास्त्येव, यदि च स्याद् वाक्यान्तरमेव तत् स्यादिति।

Showing 221 to 230 of 1676 verses