आकाङ्क्षावच्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः। तदनुसारेण चान्विताभिधानमपि तथैवेति॥
सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम्।
अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात्॥ ४३॥
सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम्।
सन्निधापकसामग्रीक्रमेण क्रमवानसौ॥ ४४॥
यथायथा सन्निधानं जायते प्रतियोगिनाम्।
तथातथा क्रमेणैव शब्दैरन्वितबोधनम्॥ ४५॥
अथ का योग्यता ? यदेतत् सम्बन्धार्हत्वं नाम।