समानाधिकरणशब्दप्रयोगे योऽन्यविशेषणत्वेन प्रसिद्धः कुतश्चिन्निमित्ता— दन्यविशेषणत्वं लभते स उपचरितः। यथा— शुक्लं यशः, मधुरं वाक्यम्, सुरभि शीलम्, सुभगः स्वभाव इति।
यस्तु शब्दोपात्तेनार्थेन क्रिया X X X समर्थेनाविनाभावात् सहचरणादि स लाक्षणिकः। यथा— यष्टीः प्रवेशय, छत्रिणो गच्छन्ति, मञ्चाः क्रोशन्ति, गङ्गायां घोषः प्रतिवसतीति॥
नन्वेवं सति जात्यादिशब्दार्थाः सर्वे लाक्षणिका भवेयुः, तेऽपि हि स्वरूपेण क्रियां साधयितुमपर्याप्तैर्जात्यादिभिरविनाभूतव्यक्तिरूपतयोपलक्ष्यन्ते।
नैवम्; जात्यादिप्रवृत्तिनिमित्तानां क्रियासिद्धिषु X X X तीराद्यर्थानामपि समन्वयो दृश्यते। नैवं गौरालभ्यतां प्रोक्ष्यतां विशस्यतामित्यादौ अनपेक्षितव्यक्तीनां गोत्वादिजातीनामपि। एतेनारुणया क्रीणाति, अभिक्रामं जुहोतीत्यादौ गुणक्रिययोर्द्रव्य— व्यवधानेनापि क्रियासमन्वये द्रव्याणामलाक्षणिकत्वमेवेत्यभिहितं भवति।
ननु च जातिगुणक्रिया X X X पाकेन जीवतीति।
नैवमत्र जात्यादीनां विशिष्यते / विशेष्यता नद्रव्यरूपत्वात्। तदुक्तम्—
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ ४६॥
कृदभिहितश्च भावो द्रव्यवत् प्रकाशत इति। एवं च मुख्यवृत्तीनां जघन्यवृत्तीनां च शब्दानां प्रयोगे सोऽर्थः, यत्र सम्बन्धित्वेन उपलम्भः यद्येवं यजेत स्वर्गकाम इत्यादौ स्वर्गयागयोः सम्बन्धित्वेनानुपलम्भात् कथं योग्यत्वेनावधारणम्, अनवधारित— योग्यतयोश्च कथमन्विताभिधानम्? उच्यते—