भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 241 to 250 of 746 verses
समानाधिकरणशब्दप्रयोगे योऽन्यविशेषणत्वेन प्रसिद्धः कुतश्चिन्निमित्ता— दन्यविशेषणत्वं लभते स उपचरितः। यथा— शुक्लं यशः, मधुरं वाक्यम्, सुरभि शीलम्, सुभगः स्वभाव इति।

यस्तु शब्दोपात्तेनार्थेन क्रिया X X X समर्थेनाविनाभावात् सहचरणादि स लाक्षणिकः। यथा— यष्टीः प्रवेशय, छत्रिणो गच्छन्ति, मञ्चाः क्रोशन्ति, गङ्गायां घोषः प्रतिवसतीति॥

नन्वेवं सति जात्यादिशब्दार्थाः सर्वे लाक्षणिका भवेयुः, तेऽपि हि स्वरूपेण क्रियां साधयितुमपर्याप्‍तैर्जात्यादिभिरविनाभूतव्यक्तिरूपतयोपलक्ष्यन्ते।

नैवम्; जात्यादिप्रवृत्तिनिमित्तानां क्रियासिद्धिषु X X X तीराद्यर्थानामपि समन्वयो दृश्‍यते। नैवं गौरालभ्यतां प्रोक्ष्यतां विशस्यतामित्यादौ अनपेक्षितव्यक्तीनां गोत्वादिजातीनामपि। एतेनारुणया क्रीणाति, अभिक्रामं जुहोतीत्यादौ गुणक्रिययोर्द्रव्य— व्यवधानेनापि क्रियासमन्वये द्रव्याणामलाक्षणिकत्वमेवेत्यभिहितं भवति।

ननु च जातिगुणक्रिया X X X पाकेन जीवतीति।

नैवमत्र जात्यादीनां विशिष्यते / विशेष्यता नद्रव्यरूपत्वात्। तदुक्तम्—

वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।

द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ ४६॥

(वाप. ३.४.३)

कृदभिहितश्च भावो द्रव्यवत् प्रकाशत इति। एवं च मुख्यवृत्तीनां जघन्यवृत्तीनां च शब्दानां प्रयोगे सोऽर्थः, यत्र सम्बन्धित्वेन उपलम्भः यद्येवं यजेत स्वर्गकाम इत्यादौ स्वर्गयागयोः सम्बन्धित्वेनानुपलम्भात् कथं योग्यत्वेनावधारणम्, अनवधारित— योग्यतयोश्च कथमन्विताभिधानम्? उच्यते—

Showing 241 to 250 of 746 verses