कः पुनरयं सम्बन्धो नाम ? अहानिर्व्यपेक्षा व्यतिषङ्ग इति। तथा हि— सम्पूर्वो बध्नाति अहानौ वर्तते, तद्यथा अस्ति नो गर्गैः सम्बन्धः, अस्ति नो वत्सैः सम्बन्ध इति। तथा व्यतिषङ्गे वर्तते, योऽयसा रज्ज्वा वा कीलादौ व्यतिषक्तो भवति स सम्बन्ध इत्युच्यते। तत्र यदा सम्बन्धस्याहानिरर्थः तदा ऊरीकरोति कारिकाकरोति शक्लीकरोति पटपटाकरोति चकासाञ्चकार विदाङ्कुर्वन्तु, लुनीहि लुनीहित्येवायं लुनाति, भ्राष्ट्रमट मठमट दूरमट इत्येवायमटति इत्येवमादयः प्रयोगा भवन्ति। न ह्येते कदाचिदप्यन्योन्यं जहतीति।
यदा सम्बन्धशब्दस्य व्यपेक्षा अर्थः तदा गुरुकुलं देवदत्तस्य, सूर्यमपि न पश्यन्ति असूर्यम्पश्या राजदाराः, किंञ्चिदपि न कुर्वाणः अकिंचित्कुर्वाणः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः, दध्नोपसिक्त ओदनो दध्योदनः, अश्रेणयः श्रेणयः कृताः श्रेणीकृताः, कण्ठे कालोऽस्य कण्ठेकालः, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि इत्यादयः प्रयोगा भवन्ति। एतैः समासावस्थायामपि देवदत्तादीन्यपेक्ष्यन्ते।
यदा तु सम्बन्धशब्दस्य व्यतिषङ्गोऽर्थः तदा उपकुम्भम्, नीलोत्पलम्, गोगर्भिणी, पूर्वकायः, सप्तर्षयः, प्लक्षन्यग्रोधौ, कष्टश्रितः, काक X X X च मिथो विशेषणविशेष्यभावेन व्यतिषज्यन्ते।
यत्र हि पूर्वोत्तरपदयोः सङ्गतार्थता तत्सामर्थ्यं सम्बन्धः, स च विशेषणविशेष्यभाव इत्याख्यायते; तत्र चैकस्य प्राधान्यमन्यस्योपसर्जनत्वम्।
न हि प्रधानयोरुपसर्जनयोरेव वा सम्बन्धः कल्पते, प्रधानस्या— परार्थत्वादुपसर्जनस्य X X X X X लक्षित(?) परस्परं पदद्वयं प्रधानोपसर्जनभावेन विशेषणविशेष्यभावमासादयति।
स च प्रधानोपसर्जनभावः कदाचिच्छब्दनिबन्धनः, कदाचिदशब्दोपादानः सामर्थ्येनावसीयते।
शब्दनिबन्धनो यदा वैयधिकरण्यं xxx उपसर्जनशब्दा हि प्रधानोपकाराय परिणतं स्वार्थमाचक्षाणाः xxx मिदधानाः प्रथमयैव संस्क्रियन्ते।
अशब्दोपादानो यदा सामानाधिकरण्यम्, अपरार्थतया हि प्रातिपदिकस्याव्यतिरेके वृथा (यद् आ—)विर्भवति शब्दैः तदुभयोर्द्रव्यशब्दतायामुपपद्यते, सा च गुणादीनां मतुब्लोपादिना भवति।
सोऽयं विभक्तिभेदतः सामर्थ्यतश्च प्रधानोपसर्जनभावो द्विप्रकारः मुख्यवृत्त्या उपचारवृत्त्या च।