भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 251 to 260 of 746 verses
सामान्येनैव योग्यत्वं लोके यदवधारितम्।

तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम्॥ ४७॥ (प्र.प ८/ ९)

(६. सामर्थ्यम्)

दृष्टं च साध्यसाधनयोर्ले X X X X यात्मकसामर्थ्याख्यसम्बन्धो मुख्यता (तया ?) व्यपेक्षेत्युच्यते। व्यपेक्षावतां पदार्थानां मिथः सम्बन्धिरूपता सामर्थ्यम्।

तत्त्रिधा १. भेदः, २. संसर्गः, ३. उभयं च। तत्र —

(१) राज्ञो भृत्य इत्यादौ यदा तावदेतदवधृतं परायत्तार्थवृत्तिरयं भृत्यशब्दो न स्वतन्त्रार्थ— वृत्तिः, तदा सामान्येन स्वामिसंसर्गस्यावगतत्वात् १स्वामिविशेष— ज्ञापनायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यो भृत्यशब्दार्थं व्यावर्तयति। सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद इत्युच्यते।

1. इत्येव राघवः।

(२) यदा तु राजपुरुष इत्यादावनवगतापरायत्तभावस्य पुरुषस्य स्वामिसम्बन्धद्योतनाय राजशब्दः प्रयुज्यते, तदा विशेषसंसर्गस्य शब्दोपादानत्वादनवकाशो विशेषान्तरसम्पातः, तदा ह्यशब्दा स्वाम्यन्तरनिवृत्तिरर्थादवसीयते। स संसर्गः।

(३) यदा त्वर्थावगतसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षायां समाप्‍तावेव (समास इव ?) भेदसंसर्गेण सामर्थ्यं भवति, यथा नीलं च तदुत्पलं च नीलोत्पलमिति (तदुभयम्)।

यत्र तुं न सम्बन्धयोग्यता न तत्र सामर्थ्यम्, यथा— क्लिद्यते वस्त्रं, नीलम् उत्पलम्, आलि कर्णे, नेह कश्चित्पुरुषः व्याघ्र सरति पल्लीम्, पश्य सखे कष्टं X X X, गच्छ त्वम् यूपाय दारु शोभनं शैले, निवर्तस्व व्याघ्राद् भयं देवदत्तस्य यज्ञदत्तात्, भार्या राज्ञः पुरुषो ब्राह्मणस्य, सक्तस्त्वम् अक्षेषु शौण्डः पिबति पानागारे। अयं दण्डो हरानेन फलानि, अन्तरा त्वां च मां च कमण्डलुः, अन्तरेण तक्षशिलां पाटलिपुत्रं च स्रुघ्‍नस्य प्राकारः, ओदनं पच तव भविष्यतीति। अत्र प्रथमेष्वभिन्नवाक्यत्वात् 'तिङ्ङतिङ' (८.१.२८) इति निघातो न भवति।.

Showing 251 to 260 of 746 verses