सामान्येनैव योग्यत्वं लोके यदवधारितम्।
तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम्॥ ४७॥ (प्र.प ८/ ९)
दृष्टं च साध्यसाधनयोर्ले X X X X यात्मकसामर्थ्याख्यसम्बन्धो मुख्यता (तया ?) व्यपेक्षेत्युच्यते। व्यपेक्षावतां पदार्थानां मिथः सम्बन्धिरूपता सामर्थ्यम्।
तत्त्रिधा १. भेदः, २. संसर्गः, ३. उभयं च। तत्र —
(१) राज्ञो भृत्य इत्यादौ यदा तावदेतदवधृतं परायत्तार्थवृत्तिरयं भृत्यशब्दो न स्वतन्त्रार्थ— वृत्तिः, तदा सामान्येन स्वामिसंसर्गस्यावगतत्वात् १स्वामिविशेष— ज्ञापनायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यो भृत्यशब्दार्थं व्यावर्तयति। सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद इत्युच्यते।
(२) यदा तु राजपुरुष इत्यादावनवगतापरायत्तभावस्य पुरुषस्य स्वामिसम्बन्धद्योतनाय राजशब्दः प्रयुज्यते, तदा विशेषसंसर्गस्य शब्दोपादानत्वादनवकाशो विशेषान्तरसम्पातः, तदा ह्यशब्दा स्वाम्यन्तरनिवृत्तिरर्थादवसीयते। स संसर्गः।
(३) यदा त्वर्थावगतसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षायां समाप्तावेव (समास इव ?) भेदसंसर्गेण सामर्थ्यं भवति, यथा नीलं च तदुत्पलं च नीलोत्पलमिति (तदुभयम्)।
यत्र तुं न सम्बन्धयोग्यता न तत्र सामर्थ्यम्, यथा— क्लिद्यते वस्त्रं, नीलम् उत्पलम्, आलि कर्णे, नेह कश्चित्पुरुषः व्याघ्र सरति पल्लीम्, पश्य सखे कष्टं X X X, गच्छ त्वम् यूपाय दारु शोभनं शैले, निवर्तस्व व्याघ्राद् भयं देवदत्तस्य यज्ञदत्तात्, भार्या राज्ञः पुरुषो ब्राह्मणस्य, सक्तस्त्वम् अक्षेषु शौण्डः पिबति पानागारे। अयं दण्डो हरानेन फलानि, अन्तरा त्वां च मां च कमण्डलुः, अन्तरेण तक्षशिलां पाटलिपुत्रं च स्रुघ्नस्य प्राकारः, ओदनं पच तव भविष्यतीति। अत्र प्रथमेष्वभिन्नवाक्यत्वात् 'तिङ्ङतिङ' (८.१.२८) इति निघातो न भवति।.