तद् द्विधा— मुख्यार्थद्वारकं जघन्यार्थद्वारकं च।
कः पुनर्मुख्यार्थो जघन्यार्थ इति ?
श्रवणसमनन्तरं साक्षादेव शब्दाद् यत्रार्थः प्रतीयते स मुखमिव प्रथमं भवतीति मुख्यः।
यस्तु गुणसम्बन्धादिव्यवधानेन शब्दादवगम्यते स जघनमिव पश्चाज्जायत इति जघन्यः। तयोः —
मुख्यस्त्रिधा 'जात्यादिमुख्यः, आकृत्यादिमुख्यः, भ्रान्त्यादिमुख्यश्च। तेषु
जातिगुणक्रियाभिधायिभिः शब्दैर्योऽभिधीयते स जात्यादिमुख्यः। गौः पदा न स्प्रष्टव्या, शुक्लां गामभ्याज, पाचकमानय, यज्ञदत्तं भोजयेति।
स एवाऽऽलेख्यप्रतिकृतिप्रतिमाप्रतिबिम्बादिविषयः आकृत्यादिमुख्यः। यथा— 'भवनभित्तौ का X X X, गावः क्रियन्तां, विष्णुं पञ्चामृतेन स्नपय, अप्सु चन्द्रमसं पश्येति।
विपर्ययाध्यासविवर्तविपरिणामादिवषियो भ्रान्त्यादिमुख्यः। कोऽयमनाकाशे शशी, स एष बालाबाहुमूले बालचन्द्रमाः, तदेतदलातचक्रं विस्फुरति, तदिदमिन्द्रा— युधं विलोक्यत' इति।
जघन्योऽपि त्रिधा— गौण, उपचरितो लाक्षणिकश्च।
ययोर्द्रव्यशब्दयोस्सामानाधिकरण्यप्रयोगे विशेषणविशेष्यभावः प्रतीयते स गौणः। यथा— गौर्वाहीकः सिंहो माणवकः, तृणं लक्ष्मीः, गोष्पदं समुद्र इति।