भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 231 to 240 of 746 verses
तद् द्विधा— मुख्यार्थद्वारकं जघन्यार्थद्वारकं च।

कः पुनर्मुख्यार्थो जघन्यार्थ इति ?

श्रवणसमनन्तरं साक्षादेव शब्दाद् यत्रार्थः प्रतीयते स मुखमिव प्रथमं भवतीति मुख्यः।

यस्तु गुणसम्बन्धादिव्यवधानेन शब्दादवगम्यते स जघनमिव पश्चाज्जायत इति जघन्यः। तयोः —

मुख्यस्त्रिधा 'जात्यादिमुख्यः, आकृत्यादिमुख्यः, भ्रान्त्यादिमुख्यश्च। तेषु

जातिगुणक्रियाभिधायिभिः शब्दैर्योऽभिधीयते स जात्यादिमुख्यः। गौः पदा न स्प्रष्टव्या, शुक्लां गामभ्याज, पाचकमानय, यज्ञदत्तं भोजयेति।

स एवाऽऽलेख्यप्रतिकृतिप्रतिमाप्रतिबिम्बादिविषयः आकृत्यादिमुख्यः। यथा— 'भवनभित्तौ का X X X, गावः क्रियन्तां, विष्णुं पञ्चामृतेन स्नपय, अप्सु चन्द्रमसं पश्‍येति।

विपर्ययाध्यासविवर्तविपरिणामादिवषियो भ्रान्त्यादिमुख्यः। कोऽयमनाकाशे शशी, स एष बालाबाहुमूले बालचन्द्रमाः, तदेतदलातचक्रं विस्फुरति, तदिदमिन्द्रा— युधं विलोक्यत' इति।

जघन्योऽपि त्रिधा— गौण, उपचरितो लाक्षणिकश्च।

ययोर्द्रव्यशब्दयोस्सामानाधिकरण्यप्रयोगे विशेषणविशेष्यभावः प्रतीयते स गौणः। यथा— गौर्वाहीकः सिंहो माणवकः, तृणं लक्ष्मीः, गोष्पदं समुद्र इति।

Showing 231 to 240 of 746 verses