भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 746 verses
मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा।

वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष॥ ४२॥

अत्र दहत्वित्यादिका क्रिया तदविनाभावनिमित्तकात् सान्निध्यादध्याहृतानलादिभिः सम्बन्धते।

ननु च सन्निधिवदाकाङ्क्षाप्यविनाभावनिमित्ता किमिति नेष्यते ? यद्धि येन विना न भवति नियोगतस्तेन तदाकाङ्क्ष्यते। क्रिया हि कारकाविनाभाविनी; तां प्रतीत्य कारकं जिज्ञासते। एवं कारकमपि बुद्ध्वा क्रियामिति।

तदयुक्तम्, जिज्ञासाविरामानुपपत्तेः; तथा ह्यविनाभावेन कारकजिज्ञासाप्युपपद्यते।

अथ प्रयोजनाभावात् कारकातिरिक्तमन्यत्र जिज्ञास्यते, तर्हि क्रियामात्रावगमेऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति तत्र जिज्ञासा न स्यात्। अनुष्ठेयतया हि क्रियायामवगतायां कारकोपादानमन्तरेण तदनुष्ठानानुपपत्तेः कारकज्ञानं प्रयोजनवत्। वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति कारकज्ञानेन प्रयोजनम्।

अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता; अत एव च तत्राध्याहारमपि कुर्वन्ति। यत्रापि च अनुष्ठेयावगतिः, तत्रापि निश्शेषकारक— जिज्ञासा स्यात्। तथा च देवदत्त गामानयेति करणानुपादानादपरिपूर्णता स्यात्।

अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा; देवदत्त गामभ्याज दण्डेनेति प्रयुक्तेऽपि दण्डशब्दे तदाकाङ्क्षा न स्यात्। ततश्चानाकाङ्क्षितत्वात् तस्य तदन्वयो वाक्यार्थे न स्यात्।

अथ दण्डपदोच्चारणात् तत्राकाङ्क्षा परिकल्प्यते, अन्यथा दण्डपदस्यानन्वये तत्पदोच्चारणनर्थकं स्यादिति।

एवमरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्य(न)न्वयप्रसङ्गः। न हि वेदपदोच्चारणेनानर्थकेन (न) भवितव्यमिति किंचन प्रमाणमस्ति। न च तत्राकाङ्क्षोदये किंचित् कारणान्तरमस्तीति सोमं क्रीणातीत्यतोऽधिकस्यानन्वितता स्यात्। अतो नाकाङ्क्षायामविनाभावो निमित्तत्वेनाश्रीयत इति॥

Showing 211 to 220 of 746 verses