मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष॥ ४२॥
अत्र दहत्वित्यादिका क्रिया तदविनाभावनिमित्तकात् सान्निध्यादध्याहृतानलादिभिः सम्बन्धते।
ननु च सन्निधिवदाकाङ्क्षाप्यविनाभावनिमित्ता किमिति नेष्यते ? यद्धि येन विना न भवति नियोगतस्तेन तदाकाङ्क्ष्यते। क्रिया हि कारकाविनाभाविनी; तां प्रतीत्य कारकं जिज्ञासते। एवं कारकमपि बुद्ध्वा क्रियामिति।
तदयुक्तम्, जिज्ञासाविरामानुपपत्तेः; तथा ह्यविनाभावेन कारकजिज्ञासाप्युपपद्यते।
अथ प्रयोजनाभावात् कारकातिरिक्तमन्यत्र जिज्ञास्यते, तर्हि क्रियामात्रावगमेऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति तत्र जिज्ञासा न स्यात्। अनुष्ठेयतया हि क्रियायामवगतायां कारकोपादानमन्तरेण तदनुष्ठानानुपपत्तेः कारकज्ञानं प्रयोजनवत्। वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति कारकज्ञानेन प्रयोजनम्।
अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता; अत एव च तत्राध्याहारमपि कुर्वन्ति। यत्रापि च अनुष्ठेयावगतिः, तत्रापि निश्शेषकारक— जिज्ञासा स्यात्। तथा च देवदत्त गामानयेति करणानुपादानादपरिपूर्णता स्यात्।
अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा; देवदत्त गामभ्याज दण्डेनेति प्रयुक्तेऽपि दण्डशब्दे तदाकाङ्क्षा न स्यात्। ततश्चानाकाङ्क्षितत्वात् तस्य तदन्वयो वाक्यार्थे न स्यात्।
अथ दण्डपदोच्चारणात् तत्राकाङ्क्षा परिकल्प्यते, अन्यथा दण्डपदस्यानन्वये तत्पदोच्चारणनर्थकं स्यादिति।
एवमरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्य(न)न्वयप्रसङ्गः। न हि वेदपदोच्चारणेनानर्थकेन (न) भवितव्यमिति किंचन प्रमाणमस्ति। न च तत्राकाङ्क्षोदये किंचित् कारणान्तरमस्तीति सोमं क्रीणातीत्यतोऽधिकस्यानन्वितता स्यात्। अतो नाकाङ्क्षायामविनाभावो निमित्तत्वेनाश्रीयत इति॥