भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 191 to 200 of 746 verses
(प्रप. ९) इति।

सा चेयमाकाङ्क्षा विभागे सति भवन्तीति व्युत्पत्तावुपलक्षणमाश्रीयते। किमिति पुनः सन्निधियोग्यतैव नाश्रीयते ?

निराकाङ्क्षेणान्विताभिधानादर्शनात्। अयमेति पुत्रो राज्ञः पुरुषोऽयमपसार्यतामिति पुत्रसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते।

कस्मात् पुनरुभयोः पुत्रपुरुषयोः सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुरुषेण ?

उच्यते, न्यायसापेक्षत्वाद् वाक्यार्थप्रतिपत्तेः नित्यसापेक्षेणैव राजा सम्बध्यते, तेन सम्बन्धनिराकाङ्क्षः न पुरुषेण सम्बन्धमनुभवतीति आकाङ्क्षापि व्युत्पत्तावुपलक्षणमाश्रीयते।

परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः।

व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाऽप्युपलक्षणम्॥ ३८॥ (प्रप. ८/९)

सा चेयमाकाङ्क्षा प्रतियोगिषु न सर्वेषु सहसैव युगपदुपजायते, अपि तु कारणोपनिपातात् क्रमेण। तथा हि— क्रियया (क्रियायाः) कर्तारमन्तरेणासम्भवात् तदवगतौ कर्ता प्रथममपेक्ष्यते, स च निष्फले व्यापारे न प्रवर्तत इति कर्मापेक्षते, व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा। एवमधिकरणादयः क्रियाकारकविशेषणादयश्चापेक्षणीया इति कारणोपनिपातः स्यात्। क्रियादिषु यथा—

जिज्ञासा जायते बोद्ध‍ुः सम्बन्धिषु तथा तथा॥ ३९॥

यद्यदाकाङ्क्षितं योग्यं सन्निधिं प्रतिपद्यते।

Showing 191 to 200 of 746 verses