सा चेयमाकाङ्क्षा विभागे सति भवन्तीति व्युत्पत्तावुपलक्षणमाश्रीयते। किमिति पुनः सन्निधियोग्यतैव नाश्रीयते ?
निराकाङ्क्षेणान्विताभिधानादर्शनात्। अयमेति पुत्रो राज्ञः पुरुषोऽयमपसार्यतामिति पुत्रसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते।
कस्मात् पुनरुभयोः पुत्रपुरुषयोः सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुरुषेण ?
उच्यते, न्यायसापेक्षत्वाद् वाक्यार्थप्रतिपत्तेः नित्यसापेक्षेणैव राजा सम्बध्यते, तेन सम्बन्धनिराकाङ्क्षः न पुरुषेण सम्बन्धमनुभवतीति आकाङ्क्षापि व्युत्पत्तावुपलक्षणमाश्रीयते।
परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः।
व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाऽप्युपलक्षणम्॥ ३८॥ (प्रप. ८/९)
सा चेयमाकाङ्क्षा प्रतियोगिषु न सर्वेषु सहसैव युगपदुपजायते, अपि तु कारणोपनिपातात् क्रमेण। तथा हि— क्रियया (क्रियायाः) कर्तारमन्तरेणासम्भवात् तदवगतौ कर्ता प्रथममपेक्ष्यते, स च निष्फले व्यापारे न प्रवर्तत इति कर्मापेक्षते, व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा। एवमधिकरणादयः क्रियाकारकविशेषणादयश्चापेक्षणीया इति कारणोपनिपातः स्यात्। क्रियादिषु यथा—
जिज्ञासा जायते बोद्धुः सम्बन्धिषु तथा तथा॥ ३९॥
यद्यदाकाङ्क्षितं योग्यं सन्निधिं प्रतिपद्यते।