कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः॥ ४२॥
तुल्यबलानामविरोधिनां भिन्नप्रयोजनानामेकार्थपरतयोपादानं समुच्चयः। यथा देवदत्तं भोजय, लवणेन सर्पिषा शाकेनेति। गुणादिसमुच्चयः पुनरभेदेन भेदेन च दृश्यते। अभेदेन यथा—
श्लाध्यान्वयेति नयनोत्सवकारिणीति निर्व्यूढसौहृदभरेति गुणोज्ज्वलेति।
एकैकमत्र हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि॥ ४३॥
कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वप्रखण्डितम्।
प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः॥ ४४॥
अनेकप्राप्तावयोगान्ययोगव्यवच्छेदेनावधारणं नियमः । यथा शङ्खः पाण्डर एव, पार्थ एव धनुर्धर इति। स च क्वचित् सार्वकालिकः क्वचिन्नियतकालः। यथा— (कुसं. ३.१९)