लम्भयति च दौर्वर्ण्यं कुङ्कुमरागो ममाङ्गानि॥ ४६॥
पिपि प्रिय सस स्वयं मुमु मुखासवं देहि मे तत त्यज दुदु द्रुतं भभभ भाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत॥ ४७॥
दृष्टः कथं सुतनु किं कुरुते किमस्मद्— वार्ता स पृच्छति शृणोति निवेद्यमानाम्।
आस्तां किमस्य कथया कथयाशु ताव— दत्रागमिष्यति न वा खलु सोऽभिमानी॥ ४८॥
शब्दस्यार्थस्य वा परस्परमयुज्यमानस्य योजनं युक्तिः। सा षोढा—
पदविषया, पदार्थविषया, वाक्यविषया, वाक्यार्थविषया, प्रकरणविषया, प्रबन्धविषया चेति। तासु —