योगवृत्तिपरम्परा अङ्गाङ्गिभावपरम्परा पर्यायपरम्परेत्यादि। पदविषया यथा—(सूश.)
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणु।
रक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य॥ ४९॥
लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये।
भक्तिप्रह्वाय दातुं मुकुलपुटकुटोकोटरक्रोटरक्रोडलीनाम्॥ ५०॥
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास॥ ५१॥
जातिक्रियागुणद्रव्याणां युक्तिः, पदार्थविषया यथा—
स्त्रीपुंनपुंसमनघं भवमानतोऽस्मि॥ ५२॥