शापान्ते मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ ४३॥
यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः॥ ४४॥
किं स स्वर्गे तरुः कोऽपि यस्य पुष्पं निशाकरः।
ते वृक्षाः कीदृशा मातर्येषां मुक्ताफलं फलम्॥ ४५॥
तिलकमसहाम्मि सोढुं घनसारेणातिसारदोषो मे।