१. श्लोक एष काव्यादर्शे नोपलभ्यत इति राघवः, इतः २.२३४ तमरूपेण योज्य इति वयम्।
तत्रालङ्कारसङ्करः (अलङ्कार—)संसृष्टिरित्येव वक्तव्ये नानाग्रहणं गुणरसादीना— मप्यलङ्कारताप्रतिपत्त्यर्थम्। तेषामपि काव्यशोभाकरत्वेनालङ्कारत्वात्। यदाह—
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते।
ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्न्येन वक्ष्यति॥ ३२॥
काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः।
साधारणमलङ्कारजातमद्य प्रदर्श्यते॥ ३३॥