भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 1530 verses
(काव्याद. २.२३२)

तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः।

अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम्॥ २९॥

(काव्याद. २.२३३)

एवमञ्जनकर्मापि वर्षतिर्व्योमकर्तृकः।

क्षरणार्थश्च विदुद्भिरुत्प्रेक्ष्यत इतीष्यताम्॥ ३०॥१

मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः।

उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ ३१॥

(काव्याद. २.२३४)

अतः स्थितमेतत्। उत्प्रेक्षाद्वयस्योपमायाश्च तमोवर्णनपरतया तुल्यकक्ष्यत्वेनैषां संसृष्टिरिति। सा च नानलङ्कारसङ्कर इत्युक्तम्।

Showing 171 to 180 of 1530 verses