भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 161 to 170 of 1530 verses
'स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते'॥ २६॥

अस्तु तर्हि तिङ्वाच्यः कर्तोपमानमिति।

न्यग्भूतोऽसौ क्रियापदे।

कथं पुनरसौ क्रियापदे न्यग्भवति ?

श्रूयताम् षडर्थास्तिङन्तेन प्रतीयन्ते— 'क्रिया, कालः, उपग्रहः, साधनं, सङ्ख्या, पुरुष' इति। तेषु क्रियाकालात्मनेपदनिमित्तानि प्रकृतिराभिधत्ते। प्रत्ययः, साधनं, सङ्ख्यां, पुरुषं च। एतेषां तु क्रियार्थत्वात् क्रिया प्रधानं, कालात्मनेपदनिमित्ते क्रियाविशेषणत्वेन, संख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः। साधनं पुनः 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति न्यायात् प्रधानभूतमपि 'भूतं भव्यायोप— दिश्यते' इति न्यायेन क्रियासिद्धावुपात्तव्यापारं परार्थतया क्रियायां न्यग्भवति। तेनायं कर्ता स्वक्रियासिद्धावाकुलः कथमुपमानत्वेनोपमेयत्वेन वान्यदपेक्षितुं क्षमते ? एवं तर्हि योऽङ्गानि लिम्पति योऽञ्जनं वर्षति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तमो नभश्चेत्यर्थः प्रतिपत्स्यते।

नैवम्। क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्यायबलाद् अप्रतिपत्तेः। तदुक्तम्— (काव्याद. १.७५)

न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी॥ २७॥

अथाध्याहारादिभिरिदमपि स्यात्। तथापि तुल्यधर्मो मार्गणीयः। तद्वदेव विप्रतिपत्तेः। न च चन्द्रमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य संप्रत्ययो भवतीति वाच्यम्।

यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते।

न तथा लेपवर्षाभ्यामन्यदत्र प्रतीयते॥ २८॥

Showing 161 to 170 of 1530 verses