मुखादिसन्धिषु च व्याप्रियमाणानां नायिका'— नायकोपनायकादीनां मनोवाक्कायकर्मनिबन्धनाः पञ्च वृत्तयो भवन्ति— 'भारती, आरभटी, कैशिकी, सात्त्वती, विमिश्रा' चेति। तासु— (नाशा.२०.२३)
या वाक्प्रधाना नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतवाक्ययुक्ता।
स्वानामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत्तु वृत्तिः॥ ३२॥
प्रस्तावपातप्लुतलङ्घनानि छेद्यानि मायाकृतमिन्द्रजालम्।
चित्राणि युद्धानि च यत्र वृत्तिं तां तादृशीमारभटीं वदन्ति॥
या श्लक्ष्णनेपथ्यविशेषयुक्ता स्त्रीसंयुता या बहुगीतनृत्ता।