कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति॥
या सात्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः॥ ३५॥
यत्रारभट्यादिगुणास्समस्ताः मिश्रत्वमाश्रित्य मिथः प्रथन्ते।
मिश्रेति तां वृत्तिमुशन्ति धीराः साधारणीमर्थचतुष्टयस्य॥ ३६॥१
सोऽयं पञ्चप्रकारोऽपि चेष्टाविशेषविन्यासक्रमो वृत्तिरित्याख्यायते।
वेषविन्यासक्रमः प्रवृत्तिः। सापि चतुर्धा— 'पौरस्त्या, मागधी, दाक्षिणात्या, आवन्त्या' च। तासां च लक्षणान्यग्रतो वक्ष्यामः। (द्र. पृ. ९७७)