भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 2002 verses
(नाशा. १९.४)

एवमेते पञ्च सन्धयः परिपूर्णप्रबन्धे भवन्ति। तदुक्तम्—

एते तु सन्धयः कार्या नाटकेषु प्रयोक्‍तृभिः।

तथा प्रकरणेष्वेवं कथास्वाख्यायिकासु च॥ २९॥

(नाशा. १९.४४)

महाकाव्येषु चम्पूषु तथैवाख्यानकेषु च।

क्रियन्ते यत्र नैते तु सर्वे ते स्युर्डिमादयः॥ ३०॥

एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः।

द्वितृतीयचतुर्थानां त्रिलोपे लोप इष्यते॥ ३१॥

(नाश. १९.१७)

Showing 151 to 160 of 2002 verses