एवं तर्हि इवश्रुतिसामर्थ्यात् तमसो नभसश्च द्वितीयमुपमानद्वयमुपस्थापयिष्यते। यथा प्रविश पिण्डीमिति प्रवेशनक्रिया स्वयोग्यं कर्मोपस्थापयति— प्रविश गृहं, पिण्डीकर्मापि स्वयोग्यां क्रियां पिण्डीं भक्षयेति। एवमिहापि इवः तमसि नभसि वोपमेये उपमानमपरमुपस्थापयिष्यतीति।
नैवम्। न हि तिङन्तेनोपमानमस्ति।
उच्यते— सत्युपमेये सति चोपमाने तयोश्च तुल्ये धर्मे सत्युपमानोपमेयभावः, नासति। न चेह तमसो नभसो वा संबन्ध्युपमानमुपमेयं वास्ति, यदाश्रय उपमानोपमेयभावः कल्प्यते।
ननु च इवश्रुतिरेव तमसो नभसश्च योग्यमुपमानमुपस्थापयिष्यति प्रविशपिण्डीन्यायेन। विषम उपन्यासः। प्रवेशनक्रिया स्वसिद्धये सर्वं कर्मकारकमाक्षिपति। तत्र प्रसिद्धितः प्रत्यासन्नं गृहमेव गम्यते। न चैवमिवस्य किंचित् सामर्थ्यमस्ति, येन स्वार्थसिद्धये प्रसिद्धमुपमानं तमसो नभसो वा समुपस्थापयति। उपमानोपमेयभावमन्तरेणाप्यस्य प्रयोगदर्शनात्। यथा 'कथमिवैतद् भविष्यति' इति। अस्तु तर्हि लिम्पतिंतमसोर्वर्षतिनभसोश्चोपमानोपमेयभावः। भवत्वेवम्। किं तु उपमानोपमेययोस्तुल्यधर्मो न दृश्यते, य उपमानोपमेयभावाय प्रभवति। किमन्येन लेपनं लिम्पतेर्, वर्षणं वा वर्षतेः, धर्मिणोऽन्यः कश्चिद् धर्मो भवितुमीष्टे।
ननु च यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः तन्निबन्धना च व्यतिरेकषष्ठी, एवं लिम्पतेर्लेपनं वर्षतेश्च वर्षणं धर्मो भविष्यतीति।
मैवम्। इह द्वयं चकास्ति, धातुर्लिम्पतिर्वर्षतिश्च, तदर्थो लेपनं वर्षणं च। तयोर्यद्युपमेयस्य तमसो नभसो वा लिम्पतिर्वर्षतिर्वा धातुरुपमानं स्यात् तस्य तेन सादृश्यं किं स्यात् ?
अथ यथामी भावाः सर्वे सारूप्यं न दधति एवमसारूप्यमपि न। ततश्चास्तित्वा— भिधेयत्वज्ञेयत्वादिभिः सर्वत्र प्रवर्ततामुपमानोपमेयभाव इति न्यायात् तमसो लिम्पतिर्नभसो वर्षतिरुपमानं भविष्यति। यद्येवं लिम्पतिरिव तमः वर्षतिरिव नभ इति प्राप्नोति, न लिम्पतीव वर्षतीवेति। ततो लेपनं वर्षणमेव अवशिष्यते। तत्किमस्तु तुल्यो धर्म उपमानधर्मी वा ? यदि तुल्यो धर्मः मार्गणीय उपमानधर्मी, यद्युपमानधर्मी मार्गणीयस्तुल्यो धर्मः। स चेह नास्ति।
अथ यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः, तथेह धर्मधर्मिभावोऽपि भविष्यति।
नैवम्। उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तं मन्यते स कथं नोन्मत्तः स्यात् ? तदुक्तम्— (काव्याद. २.२२९)