भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 1530 verses
एवं तर्हि इवश्रुतिसामर्थ्यात् तमसो नभसश्च द्वितीयमुपमानद्वयमुपस्थापयिष्यते। यथा प्रविश पिण्डीमिति प्रवेशनक्रिया स्वयोग्यं कर्मोपस्थापयति— प्रविश गृहं, पिण्डीकर्मापि स्वयोग्यां क्रियां पिण्डीं भक्षयेति। एवमिहापि इवः तमसि नभसि वोपमेये उपमानमपरमुपस्थापयिष्यतीति।

नैवम्। न हि तिङन्तेनोपमानमस्ति।

का पुनरत्रोपपत्तिः ?

उच्यते— सत्युपमेये सति चोपमाने तयोश्च तुल्ये धर्मे सत्युपमानोपमेयभावः, नासति। न चेह तमसो नभसो वा संबन्ध्युपमानमुपमेयं वास्ति, यदाश्रय उपमानोपमेयभावः कल्प्यते।

ननु च इवश्रुतिरेव तमसो नभसश्च योग्यमुपमानमुपस्थापयिष्यति प्रविशपिण्डीन्यायेन। विषम उपन्यासः। प्रवेशनक्रिया स्वसिद्धये सर्वं कर्मकारकमाक्षिपति। तत्र प्रसिद्धितः प्रत्यासन्नं गृहमेव गम्यते। न चैवमिवस्य किंचित् सामर्थ्यमस्ति, येन स्वार्थसिद्धये प्रसिद्धमुपमानं तमसो नभसो वा समुपस्थापयति। उपमानोपमेयभावमन्तरेणाप्यस्य प्रयोगदर्शनात्। यथा 'कथमिवैतद् भविष्यति' इति। अस्तु तर्हि लिम्पतिंतमसोर्वर्षतिनभसोश्चोपमानोपमेयभावः। भवत्वेवम्। किं तु उपमानोपमेययोस्तुल्यधर्मो न दृश्यते, य उपमानोपमेयभावाय प्रभवति। किमन्येन लेपनं लिम्पतेर्, वर्षणं वा वर्षतेः, धर्मिणोऽन्यः कश्चिद् धर्मो भवितुमीष्टे।

ननु च यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः तन्निबन्धना च व्यतिरेकषष्ठी, एवं लिम्पतेर्लेपनं वर्षतेश्च वर्षणं धर्मो भविष्यतीति।

मैवम्। इह द्वयं चकास्ति, धातुर्लिम्पतिर्वर्षतिश्च, तदर्थो लेपनं वर्षणं च। तयोर्यद्युपमेयस्य तमसो नभसो वा लिम्पतिर्वर्षतिर्वा धातुरुपमानं स्यात् तस्य तेन सादृश्यं किं स्यात् ?

अथ यथामी भावाः सर्वे सारूप्यं न दधति एवमसारूप्यमपि न। ततश्चास्तित्वा— भिधेयत्वज्ञेयत्वादिभिः सर्वत्र प्रवर्ततामुपमानोपमेयभाव इति न्यायात् तमसो लिम्पतिर्नभसो वर्षतिरुपमानं भविष्यति। यद्येवं लिम्पतिरिव तमः वर्षतिरिव नभ इति प्राप्‍नोति, न लिम्पतीव वर्षतीवेति। ततो लेपनं वर्षणमेव अवशिष्यते। तत्किमस्तु तुल्यो धर्म उपमानधर्मी वा ? यदि तुल्यो धर्मः मार्गणीय उपमानधर्मी, यद्युपमानधर्मी मार्गणीयस्तुल्यो धर्मः। स चेह नास्ति।

अथ यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः, तथेह धर्मधर्मिभावोऽपि भविष्यति।

नैवम्। उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तं मन्यते स कथं नोन्मत्तः स्यात् ? तदुक्तम्— (काव्याद. २.२२९)

Showing 151 to 160 of 1530 verses