भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 1530 verses
आक्रोशत्यवजानाति कदर्थयति निन्दति॥ २२॥

विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति।

तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति॥ २३॥

तेन सार्धं विगृह्‍णाति तुलां तेनाधिरोहति।

तत्पदव्यां पदं धत्ते तस्य कक्ष्यां विगाहते॥ २४॥

तमन्वेत्यनुबध्‍नाति तच्छीलं तन्निषेधति।

तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः॥ २५॥

(काव्याद. २.५८–६४)

तत्कथमुच्यते 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ' इति द्वे उत्प्रेक्षे, न तूपमे, इति ? इवो हि वाक्यान्तरप्रयुज्यमान उपमानोपमेययोः सादृश्यावद्योतने निरूढशक्तिः, स इहापि तदर्थ एव भवितुमर्हतीति।

नैवम्। उपमानोपमेयशब्दप्रतिपन्नस्य सादृश्यावद्योतनमिवेन क्रियते। न च लिम्पतीत्येवमादौ तमसो नभसो वा द्वितीयमुपमेयमुपमानं वास्ति, येन तयोः सादृश्यावद्योतनाय इवः प्रयुज्यते।

Showing 141 to 150 of 1530 verses