ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः॥ ३१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निषादस्य च संवादमृषेः संवरणस्य च॥ ३२॥
अतिक्रान्तघटना यथा—(राच.१.१८)
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्भेदाः कदम्बबनराजयः॥ ३३॥
छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते।
स्वेति हेति हरेणोक्तेः स्वाहाऽऽसीत् सैष रावणः॥ ३४॥