भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 161 to 170 of 1770 verses
सङ्गीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः सर्वाङ्गीणमहो विधेः परिणतं विज्ञानचित्रं चिरात्॥ ३७॥

विभक्तिमुद्रा यथा—(विसा. १.८)

श्रियः प्रसूते विपदो रुणाद्धि यशांसि सूते मलिनं प्रमार्ष्टि।

संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः॥ ३८॥

वचनमुद्रा यथा—(उराच. १.९)

विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते।

तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च॥ ३९॥

वाक्यमुद्रा यथा—

यत् स्वच्छे सलिलात्मनि प्रतिफलेद्देवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्स्‍नेति तत्त्वान्तरम्।

तिग्मं धाम चिरं चकास्ति दिवि यत् तत्रास्ति दिव्यः पुमान् यं विज्ञातवतां त्रुटनित निखिला भूयो भवग्रन्थयः॥ ४०॥

Showing 161 to 170 of 1770 verses