जातश्चायं मुखेन्दुस्ते भ्रुकुटीप्रणयी पुरः।
गतं च वसुदेवस्य कुलं नामावशेषताम्॥ ४१॥
मणिरत्नं प्रसेनस्य तच्चानार्येण विष्णुना।
लब्धं येनाद्य योगेन किं कीर्तितेन वः॥ ४२॥
अन्योक्तीनामनुकरणं छाया। सा षोढा—
लोकोक्तिच्छाया, छोकोक्तिच्छाया, मुग्धोक्तिच्छाया, पोटोक्तिच्छाया, स्खलितोक्तिच्छाया, असमञ्जसोक्तिच्छाया चेति। तासु—
लोकोक्तिच्छाया यथा—(मेघ.१०७)