वाक्यघटना यथा—(विक्र. ४.३३)
हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता।
विभावितैकदेशेन देयं यदभियुज्यते॥ ३५॥
प्रकीर्णघटना यथा—(माघ. ३.७४)
साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श॥ ३६॥
साभिप्रायवचनविनिवेशो मु्द्रा। षोढा—
पदमुद्रा, विभक्तिमुद्रा, वचनमुद्रा, वाक्यमुद्रा, समुच्चयमुद्रा, संवृतिमुद्रा चेति। तासु पदमुद्रा यथा—(बारा. १.४०)
निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी भ्रूयुग्मस्य सनाभि गन्मथधनुर्ज्योत्स्ना स्मितस्याञ्चलः।