भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 1676 verses
तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्‌दुकूलं दधानः।

मदधिवसतिमागाः कामिनां मण्डनश्री— र्व्रजति हि सफलत्वं वल्लभालोकनेन॥ ३३॥

यथा वा निषेधे—

यदार्थ कामं भवता स याच्यतामिति क्षमं नैतदनल्पचेतसाम्।

कथं प्रसह्याहरणैषिणां प्रियाः परावनतया मलिनीकृताः श्रियः॥ ३४॥

(१३. भेदविवक्षा)

यत्राङ्गाङ्गिभावादिना भेदो विवक्ष्यते सा भेदविवक्षा। यथा— अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्त इति। यथा च— (कु.सं. २.१०)

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना।

आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ ३५॥

(१४. अभेदविवक्षा)

Showing 151 to 160 of 1676 verses