अत्र समस्तप्राणहृद्भेदसाधारण्येन प्रवृत्तो निद्रार्थस्तद्विरोधिभ्यां प्रियसङ्गम— वियोगाभ्यां निषिध्यते।
४. यत्रार्थित्वा(र्थितत्व ?)प्रवृत्तमन्येनैव तत्कार्यसिद्धौ निषिध्यते सा कृतार्थत्वनैषेधिकी।
किं तस्स पारएणं किमग्गिणा किं व गब्भहरएण।
जस्स उरम्मि णिसम्मइ/णिमज्जइ उम्हाअंतत्थणी जाआ॥ ३१॥
(किं तस्य प्रावारकेण किमग्निना किं वा गर्भगृहकेण।
यस्योरसि निमज्जति ऊष्मायमाणस्तनी जाया॥)
अत्र प्रावरविलासाग्निगर्भगृहकाणि हैमनशीतार्त्तिनिवृत्तये प्रवृत्तानि तदर्थकारिणोपारूढयौवनोपगूढप्रियाकुचोष्मणा निवर्त्यन्ते।
५. यत्र परिसंख्यातेनार्थेन शेषं निषिध्यते सा परिसंख्यानैषेधिकी। यथा—
वे वावल्ल विउद्धमुहे सज्जिअ—तिलइ ति कंड।