(३) यत्रेक एव शब्दोऽर्थभेदप्रकल्पनया गुणनिमित्तं विशेषणविशेष्यभावमनुभवति असौ भेदविषयः। गौणमुख्ययोर्गुणनिमित्तो मुख्ययोश्च जातिनिमित्तो यथा—
तह करकमलं कमलं चंदो चंदमुहि तुज्झ मुहअंदो।
कमलं उण कमलं च्चिअ चंदो चंदो च्चिअ वराओ॥ ३६॥
(तव करकमलं कमलं चन्द्रश्चन्द्रमुखि तव मुखचन्द्रः।
कमलं पुनः कमलमेव चन्द्रश्चन्द्र एव वराकः॥)
मुख्ययोर्गुणनिमित्तो यथा—
ताला जाअंति गुणा जाला दे सिहअएहि घेप्पंति।
रइकिरणाणुग्गहिआइं होंति कमलाइं कमलाइं॥ ३७॥
(तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥)