मुख्ययोः क्रियानिमित्तो यथा—(किराता. ११.७३)
ग्रसमानमिवोजांसि सदसा गौरवोरितम्।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान्॥ ३८॥
अमृतममृतं चन्द्रश्चन्द्रस्थथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि।
इति न भजते वस्तु प्रायः परस्परसङ्करं तदियमबला धत्ते भावान् कथं सकलात्मकान्॥ ३९॥
(४) साधर्म्यादिप्रसिद्धेर्यत्रोपमानमेवोपमेयं प्रत्याययत्यसावभेदविषयः।
पिबन्मधु यथाकामं भ्रमरं फुल्लपङ्कजे।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुड्मलम्॥ ४०॥