कअ—कण्णुप्पलि पंच सर तहो कामहो कोदंड॥ ३२॥
(द्वौ बाणौ विबुद्धमुखे सज्जिततिलके त्रयः काण्डाः।
कृतकर्णोत्पले पञ्च शरास्तस्य कामस्य कोदण्डः॥)
अत्र जगज्जिगीषया चक्रीकृतकामकोदण्डानुकारिणि मुखे विबुद्धेऽपि लोचनोत्पलद्वयस्यैव प्रकाशमानत्वात् कुसुमसायकस्य द्वावेव बाणौ न त्रयो न पञ्चेति, सज्जिततिलके त्रय एव, न द्वौ न पञ्चेति, कृतकर्णोत्पले पञ्चैव न द्वौ न त्रय इति परिसंख्यातेनार्थेन शेषं निषिध्यते।
६. यत्रैकावधारणेनान्यत् पराक्रियते सा नियमनैषेधिकी। यथा—
स च्चिअ जीआ ते च्चिअ मग्गणा सा अ जस्स धणुइट्ठी।
दिट्ठिअ कुवलयविलोअणाण सो जअइ कंदप्पो॥ ३३॥
(सैव ज्या त एव मार्गणाः सा च यस्य धनुर्यष्टिः।
दृष्ट्या कुवलयविलोचनानां स जयति कन्दर्पः॥)
अत्र ज्यामार्गणधनुर्यष्टीनामन्यत्र भेदेनोपलम्भात् कन्दर्पविषयेऽपि तद्भेदोऽनुवृतः कुवलयविलोचनादृष्टेस्तेन तेन संस्थानेन तत्तत्कार्यकरणात् सैव सर्वात्मिकेत्य— वधारणं(णेन) निवर्त्यते। एतेन नियमसदृशफलो विनिग्रहोऽपि व्याख्यातः। यथा—