तद्विपर्यये अभेदविवक्षा यथा— तानेव शालीन् भुञ्ज्महे ये मगधेषु, तानेव शाटकानाच्छादयामः ये पाटलीपुत्रे, तदेवेदं कार्षापणं यन्मधुरायां दृष्टमिति। यथा—
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम्।
न कारणत्स्वाद् विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्॥ ३६॥
यत्र सन्निहितस्यायोग्यतायां व्यवहितमाश्रीयते सा व्यवहितकल्पना, यथा च प्रविश पिण्डिमिति प्रवेशनक्रिया सन्निहितायामप्ययोग्ययां पिण्डयामसम्भवन्ती व्यवहितमपि योग्यं गृहादिकमपेक्षते। एवं पिण्डीमित्येतदपि कर्मपदं सन्निहितायामपि प्रवेशनक्रियायामयोग्यायामसम्भवद् व्यवहितामपि योग्यां भक्षयेत्यादिकां क्रियामपेक्षते। यथा च मेघदूताद्यश्लोके कश्चिद् यक्षः शापेनास्तंगमितमहिमा रामगिर्याश्रमेषु वसतिं चक्र इति।
यत्रान्यधर्माः सति निमित्तेऽन्यत्रोपचर्यन्ते सा उपचारकल्पना। यथा कालोऽतिक्रामति, मञ्चाः क्रोशन्ति। यथा वा—(वारा. ५.३४.६)
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥ ३७॥