सीतापरिमृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः॥)
स्तुतिनिन्दार्थमतिशयोक्तिरर्थवादः। तद्यथा— मनोजवोऽश्वः, विश्वव्यापिनी तृष्णा इति। यथा च स्तुतौ—
कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि।
यत्र हंसवयांसीव भुवनानि चतुर्दश॥ ३१॥
येषां प्राणिवधः क्रीडा नर्म मर्मच्छदो गिरः।
परापवादः कर्तव्यस्ते मृत्योरपि मृत्यवः॥ ३२॥
सिद्धस्य विधिनिषेधार्थमुच्चारणमनुवादः। तद् यथा कथमीदृशमनीदृशोऽभिदधीत, कथमेवंविधायस्तवायमेवंविधः पतिरिति। यथा च विधौ—