स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥ २४॥ मेघ.
कर्मधारयमत्वर्थीयेन गुरुर्यथा—
आकैलासाद् बिसकिसलयच्देदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसास्सहायाः॥ २५॥ मेघ.
आदिग्रहणात् समासवाक्यादिषु गुरुत्वलघुत्वाभ्यां ग्रन्थगौरवलाघवे प्रतिपत्तिगौरवलाघवे च द्रष्टव्ये। तत्र समासगुरुत्वे ग्रन्थलाघवं प्रतिपत्तिगौरवं च यथा—
विलासमसृणोल्लसन्मुसललोलदोःकन्दली— परस्परपरिस्खलद्वलयनिस्वनोद्दन्तुराः।
हरन्ति कलहुङ्कृतिप्रसभकम्पितोरुस्तन— त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः॥ २६॥
समासलघुत्वे ग्रन्थगौरवं प्रतिपत्तिलाघवं च यथा—
सिकतिल—तलास्सान्द्रच्छायास्तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः।
अविनयवतीनिर्विच्छेदस्मरव्ययदायिनः कथय मुरले ! केनामी ते कृता निचुलद्रुमाः॥ २७॥