भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 1676 verses
ग्रस्ते जगत्यपरमिच्छति योऽत्र वस्तु कोऽन्यो हतत्रपतया सदृशोऽस्ति तेन॥ २१॥

असंज्ञया गुरु यथा— (शाकु. १.१)

या सृष्टिः स्त्रष्टुराद्या बहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।

यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्न(नाँ)स्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥ २२॥

आभ्यामुभययोगे गुरुलघुभेदोऽपि व्याख्यातः। यथा—

१. जलमुचां मेघानां यौ पथ्याधारौ जलाकाशौ। पथ्यमशनं जलम्, आधार आकाशः। '॰हारावि'ति— जोशेर—राघवौ। हरज॰ इति, दहवि॰ इति च जो.

पथ्याधारौ१ हर! जलमुचां यौ च, यौ पङ्कजानां मित्रामित्रौ, वरद! हविषां दायकग्राहकौ च।

यौ गन्धस्य प्रजन—वहनौ तामहं तुष्टिहेतो— रष्टौ वन्दे त्रिभुवनतनोर्मूर्तिभेदाँस्तवैतान्॥ २३॥

कर्मधारय बहुव्रीहिणा लघुर्यथा—

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

Showing 111 to 120 of 1676 verses