वाक्यलाघवे प्रतिपत्तिगौरवं यथा—
पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु॥ २८॥
वाक्यगौरवे प्रतिपत्तिलाघवं यथा—
आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत्।
हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम्॥ २९॥
एतेन क्वचिद्वाक्यलाघवेऽपि प्रतिपत्तिलाघवं व्याख्यातम्। यथा—(सेब.१.४२)
तं दइआहिण्णाणं जम्मि वि अंगम्मि राहवेण ण णिमिअं।
सीआपरिमट्टेण व वूढो तेण वि णिरंतरं रोमंचो॥ ३०॥
(तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न स्थापितम्।