(वेपनस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः॥)
अत्र स्वस्तीति पदस्यासमाप्तौ सन्देशदानादेस्तदुत्तरकालभाविनोऽप्रस्ताव इति तन्निमित्तत्त्वेनासम्भवेन लेख्यस्य विधेयत्वं निषिध्यते।
लइ वप्पुड पिउ दुद्ध कत्तो अम्हाणहुं छासि।
पुत्तहुमत्थे हत्थो जइ दहि—जम्मेवि जअ आसि॥ २८॥
(गृहाण अनुकम्प्य पिब दुग्धं कुतोऽस्माकं तक्रम्।
पुत्रकमस्तके हस्तो यदि दधिजन्मन्यपि जातमासीत्॥)
अत्र दध्नोऽप्यनुत्पत्तौ तदुत्तरकालभाविनस्तक्रोत्पादनस्यासम्भवेन तक्रपानस्य विधेयत्वं निषिध्यते।
३. यत्र विरोधिना शब्देनार्थेन वा कार्यं निवार्यते सा विरोधनैषेधिकी। तयोराद्या यथा—