अत्र शाल्मलिसादृश्यं कण्टंककुसुमसाधर्म्यात् पङ्कजवनेऽनुवृत्तं प्रतीयमान— सौगन्ध्यादिगुणाभावसूचकेन वचनेन निवर्त्यते।
कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति।
गुरुरस्त्रा(रत्रा?)सनसेव्यः प्रियानितम्बः कदा मन्त्री॥ २६॥
अत्र यो यस्य मान्यः प्रियो वा स तस्य मन्त्रीति सामान्येन मान्यत्वप्रियत्वाभ्यां मान्यप्रियानुवृत्ता प्रष्टव्यता प्रियानितम्बदृष्टान्तावष्टम्भशोभिनाभिधीयमान—
कार्यज्ञत्वा भावसूचकेन वचनेन निवर्त्यते।
२. यत्र असम्भवेन विधेयं निषिध्यते सा असम्भवनैषेधिकी। सा द्विधा अप्रस्तावनिमित्ता, अनुत्पादनिमित्ता च।
तयोराद्या यथा—(गासं. ३.४४)
वेविर—सिण्ण—करंगुलि—परिग्गह—क्खलिअलेहणी—मग्गे।
सोत्थि च्चिअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो॥ २७॥