भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 746 verses
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥ २१॥ (रघु. ४.२)

अत्राग्नेर्निशमनक्रियासम्भवात् पू्र्वकालत्वायोगे तं निशम्यापि राज्ञां रजतामिति (राजतां प्रति ?) व्युत्थितिकालार्थो व्यवहितो व्यपेक्ष्यते। तेनायमर्थः सम्पद्यते— तं राज्ये प्रतिष्ठितं निशम्य राजाभिमानमुद्वहतां हृदयेऽग्निरिवोत्थित इति।

७. एतेन गुणकल्पनानैयायिकी अपि व्याख्याता। यथा—

चंद—णिहिएक्कचलणा णह—भमिर—मरालणिहिणु अवर—वआ।

कमलवण—दिण्णहत्था णहसिरी भुवणमोअरइ॥ २२॥

(चन्द्रनिहितैकचरणा नभोभ्रमणशील—मराल—निहितापर—पदा। कमल—वन—दत्तहस्ता नभश्रीर्भुवनमवतरति॥)

८. आदिग्रहणादपोद्धारवाक्यभेदादयो गृह्यन्ते। तेषु यत्र वृत्तिच्छन्नस्य सर्वनामादिभि— रपोदधृत्यानुसन्धानं क्रियते सा अपोद्धारनैयायिकी। यथा—(कुसं. ५. ७६)

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा।

जगच्छरण्यस्य निराशिषः सतः किमाभिराशोपहतात्मवृत्तिभिः॥ २३॥

अत्र वृत्तिच्छन्नयोर्विपद्‌विभूतिपदयोराभिरिति सर्वनाम्नानुसन्धाने जगच्छऱण्यस्य किं विपद्भिः, निराशिषः किं विभूतिभिरित्यर्थः सङ्गच्छते।

Showing 101 to 110 of 746 verses