मा भैः शशाङ्क मम शीथुनि नास्ति राहुः खे रोहिणी वसति कातर ! किं बिभेषि।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्॥ २४॥
६. अवस्तुष्वपि वस्तुवन्मिथ्याप्रसिद्धिः प्रवादः। यथा—
गन्धर्वपुरसुरायुधकुरङ्गतृष्णान्धकारूपाणि।
असतामसत्यदुर्ग्रहदुरापमलिनानि वृत्तानि॥ २५॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुः खण्डमाखण्डलस्य।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥ २६॥