भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 1087 verses
गौणी द्विधा— १. गुणनिमित्ता, २. उपचारानिमित्ता च।

(१. गुणनिमित्ता —६)

तत्र यस्यां द्वयोर्वचनयोस्सामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगः, विशेषण— विशेष्यभावान्यथानुपपत्त्यैकस्य प्रतीयमानाभिधीयमानगुणद्वारकसम्बन्धो भवति, सा गुणव्यवहितार्था गुणनिमित्ता च। तत्र च—

संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते।

गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम्॥ २७॥

(वाप. ३.५.१)

गुणः स्वार्थो विशेषणं प्रवृत्तिनिमित्तमिति चैकोऽर्थः। स धर्मगुणक्रियाऽऽकृति— जातिस्वरूपादिभेदादनन्तः। तत्सम्बन्धेन यद्यपि तन्निमिता वृत्तिरनन्तप्रकारैव कल्प्यते तथापि तस्याः षडेव विकल्पा भवन्ति — 'मुख्यविषयः, अमुख्यविषयः, भेदविषयः, अभेदविषयः, विशेषणविषयः, अविशेषविषय' इति।

(१) यत्र द्वयोरपि मुख्यविशेष्यार्थयोर्धर्मादिनिमित्तमेकस्येतरविशेषणत्वं भवति स मुख्यविषयः।

स धर्मनिमित्तः समासे यथा—

यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।

Showing 111 to 120 of 1087 verses