४. वस्तुनोऽवस्थान्तरोपगमनं विपरिणामः। यथा—
य एते यज्वानः प्रथितमहसो येऽप्यवनिपाः मृगाक्ष्यो याश्चैताः कृतमपरसंसारिकथया।
अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भवगती॥ २१॥
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं समं चक्रीकृत्य प्रहसितमुखी शैलतनया।
अवोचद् यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥ २२॥
५. मिथ्याज्ञानं वपिर्ययः। यथा— (विक्रमो. ४.१७)
हृतोष्ठरागैर्नयनोदबिन्दुभिः निमग्ननाभेर्निपतद्भिरङ्कितम्।
च्युत रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम्॥ २३॥